संस्कृत गीत माला- एक प्यार का नगमा है काे संस्कृत अनुवाद

संस्कृत गीत माला- एक प्यार का नगमा है काे संस्कृत अनुवाद

लोकसंवाद संवाददाता  |  समाज  |  बैशाख १५, २०७६

हिन्दी-चलचित्रम् स् ‘शोर’

गीत-रचना स्  सन्तोष आनन्दः 

सङ्गीतम् स्  लक्ष्मीकान्त-प्यारेलालौ
गायनम् स्  लता-मङ्गेशकरस् मुकेशश्च 

संस्कृतानुवादकः - डॉ। हरेकृष्ण-मेहेरः  

एकं प्रणय(गीतम् ,    
लहरीणां रयोऽस्तीदम् । 
जीवनं न किञ्चिदपरम्,
तव ममैव गाथेयम्  ॥ 

प्राप्ते हि भवेन् नष्टम् , नष्टे च भवेत् प्राप्तम् ।
जीवन(तात्पर्यमिदम् , आगमनं च प्रस्थानम् ।
द्विक्षणात्मक(जीवनतो  वरमायुरेकं हार्यम् । 
जीवनं न किञ्चिदपरम् ,  
तव ममैव गाथेयम्  ॥ 

त्वं धारा खलु नद्याः, अस्मि ते प्रतीरमहम् ।
त्वं भासि सहायो मे, तेऽप्यस्मि सहायोऽहम् ।
अम्भोधिः स्थितो नयने, आशानां जलं पूर्णम् ।
जीवनं न किञ्चिदपरम् ,
तव ममैव गाथेयम्  ॥ 

वात्या हि समायात्री,  आगत्य च गन्त्री सा ।
स्वल्पायुः पयोभृदयम् , आच्छाद्य लयं गन्ता ।
अवशिष्यते तच्छाया, अवशिष्यते तच्चिह्नम् ।
जीवनं न किञ्चिदपरम् ,  
तव ममैव गाथेयम्  ॥ 

यत् सान्त्वयति स्वान्तम् , तदुद्धृत्यानय वाद्यम् ।
श्वसनस्य हि रोधात् प्राक् , उत्तोलय कण्ठ(रवम् ।
स्वर(माधुर्यं  प्रमुदानाम् , अश्रूणामिदं  वचनम् ।
जीवनं न किञ्चिदपरम् ,  
तव ममैव गाथेयम्  ॥ 
 

  गीत  ल‌िंकमा सुन्न सकिन्छ

हिन्दी गीत 'मेरे रश्के कमर' संस्कृतमा

शोखियों में घोला जाये, फूलों का शबाब

संस्कृत गीत माला- एक प्यार का नगमा है काे संस्कृत अनुवाद